|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.115. अध्यायः 115
Mahabharata - Drona Parva - Chapter Topics
सात्यकिना जलसन्धस्य वधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-115-0x(4556)(49547)
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि।
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना॥ 7-115-1(49548)
लज्जयावनते चापि परिहृष्टे च तावके।
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम्॥ 7-115-2(49549)
श्रुत्वा स निनदं भीमं तावकानां महाहवे।
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात्॥ 7-115-3(49550)
उवाच सारथिं तत्र क्रोधामर्षसमन्वितः।
हार्दिक्याभिमुखं सूत कुरु मे रथमुत्तमम्॥ 7-115-4(49551)
कुरुते कदनं पश्य पाण्डुसैन्ये ह्यमर्षितः।
एनं जित्वा पुनः सूत यास्यामि विजयं प्रति॥ 7-115-5(49552)
एवमुक्ते तु वचने सूतस्तस्य महामते।
निमेषान्तरमात्रेण कृतवर्माणमभ्ययात्॥ 7-115-6(49553)
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः।
अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुद्ध्यत्स सात्यकिः॥ 7-115-7(49554)
अथाशु निशितं भल्लुं शैनेयः कृतवर्मणः।
प्रेषयामास समरे शरांश्च चतुरोऽपरान्॥ 7-115-8(49555)
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः।
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः॥ 7-115-9(49556)
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः।
सेनामस्यार्दयामास शरैः सन्नतपर्वभिः॥ 7-115-10(49557)
अभज्यताथ पृतना शैनेयशरपीडिता।
`पलायनकृतोत्साहा भ्रमन्ती तत्रतत्र ह'।
ततः प्रायात्स त्वरितः सात्यकिः सत्यविक्रमः॥ 7-115-11(49558)
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान्।
अतीत्य स महाराज द्रोणानीकमहार्णवम्॥ 7-115-12(49559)
पराजित्य तु संहृष्टः कृतवर्माणमाहवे।
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम्॥ 7-115-13(49560)
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्वि पसङ्कुलम्।
पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः॥ 7-115-14(49561)
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः।
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम्॥ 7-115-15(49562)
एते हि बहवः सूत दुर्निवार्याश्च संयुगे।
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः॥ 7-115-16(49563)
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः।
`न चाजित्वा रणे ह्येताञ्शक्यः प्राप्तुं जयद्रथः॥ 7-115-17(49564)
नापि सूत मया पार्थः शक्यः प्राप्तुं कथञ्चन।
एते तिष्ठन्ति सहिताः सर्वविद्यासु निष्ठिताः'॥ 7-115-18(49565)
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः।
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः॥ 7-115-19(49566)
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे।
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः॥ 7-115-20(49567)
सञ्जय उवाच। 7-115-21x(4557)
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः।
रथेनादित्यवर्णेन भास्वरेण पताकिना॥ 7-115-21(49568)
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः।
वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः॥ 7-115-22(49569)
आपतन्तं रणे तं तु शङ्खवर्णैर्हयोत्तमैः।
परिववुस्ततः शूरा गजानीकेन सर्वतः।
किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः॥ 7-115-23(49570)
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत्।
पर्वतानिव वर्षेण तपान्ते जलदो महान्॥ 7-115-24(49571)
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः।
प्राद्रवन्रणमुत्सृज्य शिनिवीरसमीरितैः॥ 7-115-25(49572)
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डिकाः।
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः॥ 7-115-26(49573)
सम्भिन्नवर्मघण्टाश्च विनिकृत्तमहाध्वजाः।
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः॥ 7-115-27(49574)
रुवन्तो विविधान्नादाञ्जलदोपमनिःस्वनाः।
नारचैर्वत्सदन्तैश्च भल्लैरञ्जलिकैस्तथा॥ 7-115-28(49575)
क्षुरप्रैरर्धचन्द्रैश्च सात्वतेन विदारिताः।
क्षरन्तोऽसृक्तथा मूत्रं पुरीषं च प्रदुद्रुवुः।
बभ्रुमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथाऽपरे॥ 7-115-29(49576)
एवं तत्कुञ्जरानीकं युयुधानेन पीडितम्।
शरैरग्न्यर्कसङ्काशैः प्रदुद्राव समन्ततः॥ 7-115-30(49577)
तस्मिन्हते गजानीके जलसन्धो महाबलः।
यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति॥ 7-115-31(49578)
रुक्मवर्मधरः शूरस्तपनीयाङ्गदः शुचिः।
कुण्डली मकुटी खङ्गी रक्तचन्दनरूषितः॥ 7-115-32(49579)
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम्।
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम्॥ 7-115-33(49580)
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि।
अशोभत महाराज सविद्युदिव तोयदः॥ 7-115-34(49581)
तमापतन्तं सहसा मागधस्य गजोत्तमम्।
सात्यकिर्वारयामास वेलेव मकरालयम्॥ 7-115-35(49582)
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः।
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः॥ 7-115-36(49583)
ततः क्रुद्धो महाराज मार्गणैर्भारसाधनैः।
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि॥ 7-115-37(49584)
ततोऽपरेण भल्लेन पीतेन निशितेन च।
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम्॥ 7-115-38(49585)
सात्यकिं छिन्नधन्वानां प्रहसन्निव भारत।
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः॥ 7-115-39(49586)
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान्।
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत्॥ 7-115-40(49587)
अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली।
धनुरन्यत्समादाय तिष्ठतिष्ठेत्युवाच ह॥ 7-115-41(49588)
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि।
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव॥ 7-115-42(49589)
क्षुरप्रेण सुतीक्ष्णेन मुष्टिदेशे महद्धनुः।
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः॥ 7-115-43(49590)
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम्।
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष॥ 7-115-44(49591)
स निर्भिद्य भुजं सव्यं माधवस्य महारणे।
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः॥ 7-115-45(49592)
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः।
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत्॥ 7-115-46(49593)
प्रगृह्य तु ततः खङ्गं जलसन्धो महाबलः।
आर्षभं चर्म च महच्छतचन्द्रकसङ्कुलम्।
आविध्य च ततः खङ्गं सात्वतायोत्ससर्ज ह॥ 7-115-47(49594)
शैनेयस्य धनुश्छित्त्वा स खङ्गो न्यपतन्महीम्।
अलातचक्रवच्चैव व्यरोचत महीं गतः॥ 7-115-48(49595)
अथान्यद्धनुरादाय सर्वकायावदारणम्।
`जलसन्धमभिप्रेक्ष्य उत्स्मयित्वा च माधवः'॥ 7-115-49(49596)
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम्।
विष्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह॥ 7-115-50(49597)
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः।
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव॥ 7-115-51(49598)
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात्।
वसुन्धराधराद्धष्टौ पञ्चशीर्षाविवोरगौ॥ 7-115-52(49599)
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमण्डितम्।
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः॥ 7-115-53(49600)
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम्।
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत॥ 7-115-54(49601)
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः।
विमानं पातयामास गजस्कन्धाद्विशांपते॥ 7-115-55(49602)
रुधिरेणावसिक्ताङ्गौ जलसन्धस्य कुञ्जरः।
विलम्बमानमवहत्संश्लिष्टं परमासनम्॥ 7-115-56(49603)
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम्।
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः॥ 7-115-57(49604)
हाहाकारो महानासीत्तव सैन्यस्य मारिष।
जलसन्धं हतं दृष्ट्वा वृष्णीनामृपभेण तु॥ 7-115-58(49605)
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः।
पलायनकृतोत्साहा निरुत्साहा द्विषञ्जये॥ 7-115-59(49606)
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः।
`सन्न्यस्य भारं सुमहत्कृतवर्मणि भारत॥ 7-115-60(49607)
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम्।
स हि पार्थान्रणे यत्तान्दधारैको महाबलः'॥ 7-115-61(49608)
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः।
द्रोणेनैव सह क्रुद्धा सात्यकिं समुपाद्रवन्॥ 7-115-62(49609)
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च।
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम्॥ ॥ 7-115-63(49610)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चदशाधिकशततमोऽध्यायः॥ 115 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-115-23 द्रोणo 5-115-26 पिण्डिक्रा गण्डः॥ 5-115-33 कण्ठसूत्रं हारम्॥ 5-115-47 ततो ग्रहणानन्तरम्। आविध्य भ्रामयित्वा॥ 5-115-52 वसुन्धराधरात् पर्वताम्॥ 5-115-115 पञ्चदशाधिकशततमोऽध्याय॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|